Posts

Showing posts with the label गणेश मङ्गलस्तोत्रम्

ऋणमोचकमङ्गलस्तोत्रम्

Image
श्रीगणेशाय नमः मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः | स्थिरासनो महाकयः सर्वकर्मविरोधकः || १|| लोहितो लोहिताक्षश्च सामगानां कृपाकरः | धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः || २|| अङ्गारको यमश्चैव सर्वरोगापहारकः | व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः || ३|| एतानि कुजनामनि नित्यं यः श्रद्धया पठेत् | ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् || ४|| धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् | कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् || ५|| स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः | न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् || ६|| अङ्गारक महाभाग भगवन्भक्तवत्सल | त्वां नमामि ममाशेषमृणमाशु विनाशय || ७|| ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः | भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा || ८|| ! अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः | तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात् || ९|| विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा | तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः || १०|| पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः | ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः || ११|| एभिर्द्वादशभिः श्लोकैर्...